|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.45. अध्यायः 045
Mahabharata - Shalya Parva - Chapter Topics
कुमारोत्पत्तिवर्णनम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
जनमेजय उवाच। 9-45-0x(5195)(62680)
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम।
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि॥ 9-45-1(62681)
यस्मिन्देशे च काले च यथा च वदतां वर।
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः॥ 9-45-2(62682)
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत्।
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे॥ 9-45-3(62683)
वैशम्पायन उवाच। 9-45-4x(5196)
कुरुवंशस्य सदृशं कौतूहलमिदं तव।
हर्षमुत्पादयत्वेव वचो मे जनमेजय॥ 9-45-4(62684)
हन्त ते कथयिष्यामि शृण्वानस्य नराधिप।
अभिषेकं कुमारस्य प्रभावं च महात्मनः॥ 9-45-5(62685)
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा।
तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम्॥ 9-45-6(62686)
तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः।
न चैवं धारयामास ब्रह्मणे उक्तवान्प्रभुः॥ 9-45-7(62687)
स गङ्गामुपसगम्य नियोगाद्ब्रह्मणः प्रभुः।
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम्॥ 9-45-8(62688)
अथ गङ्गापि तं गर्भमसहन्ती विधारणे
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते॥ 9-45-9(62689)
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः।
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः॥ 9-45-10(62690)
शरस्तम्बे महात्मानमनलात्मजमीश्वरम्।
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः॥ 9-45-11(62691)
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः।
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा॥ 9-45-12(62692)
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः।
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः॥ 9-45-13(62693)
यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि।
स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा॥ 9-45-14(62694)
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता।
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः॥ 9-45-15(62695)
कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः।
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः॥ 9-45-16(62696)
शमेन तपसा चैव वीर्येण च समन्वितः।
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः। 9-45-17(62697)
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः।
स्तयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा॥ 9-45-18(62698)
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः।
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः॥ 9-45-19(62699)
अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा।
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्। 9-45-20(62700)
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः।
वेदश्चैनं चतुर्मूर्तिरपतस्थे कृताञ्जलिः॥ 9-45-21(62701)
धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः।
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला॥ 9-45-22(62702)
स ददर्श महात्मानं देवदेवमुमापतिः।
शैलपुत्र्या समागम्यभूतसङ्घशतैर्वृतः॥ 9-45-23(62703)
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः।
विकृता विकृताकारा विकृताभरणध्वजाः॥ 9-45-24(62704)
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः।
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा॥ 9-45-25(62705)
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः।
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि॥ 9-45-26(62706)
श्वाविच्छल्यकगोधानामजैडकगवां तथा।
सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन्॥ 9-45-27(62707)
केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः।
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः॥ 9-45-28(62708)
सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते।
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा॥ 9-45-29(62709)
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः।
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना॥ 9-45-30(62710)
शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम्।
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः॥ 9-45-31(62711)
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः।
पितरो जगतः श्रेष्ठा देवानामपि देवताः।
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः॥ 9-45-32(62712)
स तु बालोऽपि बलवान्महायोगबलान्वितः।
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्॥ 9-45-33(62713)
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्।
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च॥ 9-45-34(62714)
कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति।
अपि मामिति सर्वेषां तेषामासीन्मनोगतम्॥ 9-45-35(62715)
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः।
युगपद्योगमास्थाय ससर्ज विविधास्तनूः॥ 9-45-36(62716)
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः॥ 9-45-37(62717)
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः।
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः॥ 9-45-38(62718)
विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम्।
शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम्॥ 9-45-39(62719)
नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः॥ 9-45-40(62720)
सर्वे भासुरदेहास्ते चत्वारः समरूपिणः।
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत्॥ 9-45-41(62721)
हाहाकारो महानासीद्देवदानवरक्षसाम्।
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम्॥ 9-45-42(62722)
ततो रुद्रश्च देवी च पावकश्च पितामहम्।
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम्॥ 9-45-43(62723)
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव।
इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया॥ 9-45-44(62724)
अस्य बालस्य भगवन्नाधिपत्य यथेप्सितम्।
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि॥ 9-45-45(62725)
ततः स भगवान्धीमान्सर्वलोकपितामहः।
मनसा चिन्तयामास किमयं लभतामिति॥ 9-45-46(62726)
ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम्।
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः॥ 9-45-47(62727)
सर्वमेवादिदेशासौ कौरवेय महात्मनः।
समर्थं च तमैश्वर्ये महामतिरमन्यत॥ 9-45-48(62728)
ततो मुहूर्तं स ध्यात्वा देवानां स्रेयसि स्थितः।
सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत॥ 9-45-49(62729)
सर्वदेवनिकायानां ये राजानः परिश्रुताः।
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः॥ 9-45-50(62730)
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः।
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः॥ 9-45-51(62731)
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्।
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता॥ 9-45-52(62732)
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते।
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः॥ ॥ 9-45-53(62733)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-45-6 तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयमिति झ.पाठः॥ 9-45-7 तेनासीदति तेजस्वी इति झ.ङ.पाठः॥ 9-45-25 बिडालवृषदंशौ मार्जारजातिभेदौ तत्सदृशाननौ॥ 9-45-27 श्वानशल्यकगोधानामिति क.पाठः॥ 9-45-37 तस्य स्कन्दस्य पृष्ठतः पश्चात् शाखविशाखनैगमेयाः आसन्। ते स्कन्देन सह चत्वारः॥ 9-45-39 वायुमूर्तिर्विभावसुमिति झ.पाठः॥ 9-45-42 अद्भुतमदृष्टपूवम्॥ 9-45-45 पञ्चचत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|